Premium Content

Please login to access premium content.

Ya Kundendu Tushara Hara Dhavala with English Lyrics

Liked
See More

श्रीसरस्वतीस्तोत्रम् या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेष जाड्यापहा ॥ १ ॥ आशासुराशीभवदङ्गवल्ली भासैवदासीकृतदुग्धसिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वां ॥ २॥ शारदा शारदांभोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात्॥ ३ ॥ सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् । देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥ ४॥ पातु नो निकषग्रावा मतिहेम्नः सरस्वती । प्राज्ञेतरपरिच्छॆदं वचसैव करोति या ॥ ५॥ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ६ ॥ वीणाधरे विपुलमंगलदानशीलो भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये । कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ७॥ श्वेताब्जपूर्ण विमलासनसंस्थिते हे श्वेताम्बरावृतमनोहरमंजुगात्रे । उद्यन्मनोज्ञसितपङ्कजमंजुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ८॥ मातस्त्वदीयपदपङ्कजभक्तियुक्ताः ये त्वां भजन्ति निखिलानपरान्विहाय । ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्निवायुगगनाम्बु विनिर्मितेन ॥ ९ ॥ मोहान्धकारभरिते हृदये मदीये मातः सदैव कुरु वासमुदारभावे । स्वीयाखिलावयवनिर्मलसुप्रभाभिः शीघ्रं विनाशय मनोगतमन्धकारम् ॥ १० ॥ ब्रह्मा जगत्सृजति पालयतीन्दिरेशः शंभुर्विनाशयति देवि तव प्रभावैः । न स्यात् कृपा यदि तव प्रकटप्रभावे न स्युः कथञ्चिदपि ते निजकार्यदक्षाः ॥ ११ ॥ लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः। एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ॥ १२ ॥ सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः । वेदवेदान्तवेदाङ्ग विद्यास्थानेभ्य एव च ॥ १३ ॥ सरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ॥ १४ ॥ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ १५ ॥

house of god
house of god
SAVE

Preferences

THEME

LANGUAGE