Achyuta Ashtakam (Achyutam Keshavam) by G Gayathri Devi

Liked

G Gayathri Devi - S Saindhavi - R Shruti

See More

Achyuta Ashtakam (Achyutam Keshavam) by G Gayathri Devi - S Saindhavi - R Shruti. अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचन्द्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥ विष्णवे जिष्णवे शङ्कने चक्रिणे रुक्मिणी राहिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥ राक्षस क्षोभितः सीतया शोभितो दण्डकारण्यभू पुण्यताकारणः । लक्ष्मणोनान्वितो वानरैः सेवितो अगस्त्य सम्पूजितो राघवः पातु माम् ॥ 5 ॥ धेनुकारिष्टका‌உनिष्टिकृद्-द्वेषिहा केशिहा कंसहृद्-वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बालहोपालकः पातु मां सर्वदा ॥ 6 ॥ बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् । वान्यया मालया शोभितोरः स्थलं लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ 7 ॥ कुञ्चितैः कुन्तलै भ्राजमानाननं रत्नमौलिं लसत्-कुण्डलं गण्डयोः । हारकेयूरकं कङ्कण प्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजे ॥ 8 ॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुन्दरं कर्तृ विश्वम्भरः तस्य वश्यो हरि र्जायते सत्वरम् ॥

house of god
house of god
SAVE

Preferences

THEME

LANGUAGE